Simple 3 lines in sanskrit about India gate

 इण्डिया गेट्, अखिलभारतीययुद्धस्मृतिः, अमर जवान ज्योति इत्येतानि एतस्य स्मारकस्य नामान्तराणि । हुतात्मनां भारतीयसैनिकानां स्मारकम् एतत् । प्रथमे विश्वयुद्धे हुतात्मभ्यः सैनिकेभ्यः भारतद्वारस्य निर्माणं जातम् आसीत् [१] । आरम्भे तु एतत् स्मारकं ज्ञातभारतीयसैनिकेभ्यः निर्मितम् इति भावः आसीत् । परन्तु ततः भारतस्यअज्ञातसैनिकानां कृते अपि एतत् स्मारकम् इति सर्वकारेण उद्घोषितम्[२] । भारतस्य देहली-महानगरस्य नवदेहलीमण्डले स्थितम् एतत् स्मारकं भारतस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् । भारतद्वारस्य परिकल्पना फ्रान्स्-देशस्य ‘आर्क-द ट्रायोम्फल्’ (Triumphal arch) सदृशी अस्ति[१] ।

  • 9
What are you looking for?